Shree Brihad Shanti Stotra

श्री बृहत् शान्ति स्तोत्र (संक्षिप्त)

ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां
 भगवन्तोऽर्हन्तः सर्वज्ञाः 
सर्वदर्शिनः त्रिलोकनाथाः, 
त्रिलोक-महिताः त्रिलोकपूज्याः त्रिलोकेश्वराः त्रिलोकोद् द्योतकरा।
ॐ ऋषभ-अजित-संभव-अभिनन्दन सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीन-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शांतिकुन्धु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पाश्र्व वरधमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्हावा।
ॐ मुनयो मुनिप्रवरा रिपुविजय दुर्भिक्ष -कान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा
ॐ ह्रीं श्रीं धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेघा-विद्यासाधन-प्रवेशन-निवेशनेषु सुगृहीत-नामानो जयन्तु ते जिनेन्द्राः।
ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखल-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-काली महाकाली-गौरी-
 गांधारी – सर्वास्त्रमहाज्वाला मानवी वैरोट्या-अच्छुप्ता – मानसी – महामानसी षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा।
ॐ आचार्योपाध्यायप्रभृति चातुर्वर्ण्यस्य श्रीश्रमण-संवस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु ।
ॐ बन्द्र-सूर्याऽङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्चर राहू केतु सहिताः सलोकपालाः सोम-यम – वरुाण कुबेर वासवा ऽऽदित्य – स्कंद -विनायकोपेता चान्येऽपि ग्राम-नगर-क्षेत्र-देवतादयस्ते सरवे प्रीयन्ताम्, अक्षीणकोष-कोष्ठागारा न रपत यश्व भवन्तु स्वाहा।
ॐ पुत्र मित्र -भ्रातृ कलत्र-सुहृत्-स्वजन-सम्बन्धि-बन्धुवर्गसहित नित्यं चाऽऽमोद-प्रमोद-कारिणः, अस्मिंश्च भूमण्डलायतननिवासि-साधु-साध्वी-श्रावक-श्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु ।
ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मागंल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु, दुरितानि, शत्रवः पराङ्‌मुखा भवन्तु स्वाहा।
श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने।
त्रैलोक्यस्याऽमराधीश – मुकुटाभ्यर्चिताङ्‌घये ॥१॥
शान्तिः शान्तिकरः श्रीमान्, शान्तिं दिशतु में गुरुः।
शान्तिरेव सदा तेषां, येषां शान्तिगृहे गृहे॥२॥ 
उन्मृष्ट-रिष्ट-दुष्ट-ग्रहगति-दुःस्वप्न-दुर्निमित्तादि। 
सम्पादित-हित-सम्पन्नामग्रहणं जयति शान्तेः॥३॥
श्रीसंघ-जगज्जनपद-राजाधिप-राजसन्निवेशानाम्। गोष्ठिक – पुरमुख्याणां व्याहरणैव्र्व्याहरेच्छान्तिम्। ॥४॥
श्रीश्रमणसंघस्य शान्तिर्भवतु,
श्रीपौरजनस्य शान्तिर्भवतु,
श्रीजनपदानां शान्तिर्भवतु,
श्रीराजाधिपानां शान्तिर्भवतु,
श्रीराजसन्निवेशानां शान्तिर्भवतु,
श्रीगोष्ठिकानांशान्तिर्भवतु,
श्रीपौरमुख्याणां शान्तिर्भवतु,
श्रीब्रह्मलोकस्य शान्तिर्भवतु,
ॐ स्वाहा ॐ स्वाहा,
ॐ श्रीपार्श्वनाथाय स्वाहा।
(इस स्तोत्र का एकाग्रता से पाठ करने से ग्रह-जन्य उपद्रवों का और मानसिक क्लेशों का उपशमन होता है।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top