Bhikshu Ashtakam

भिक्षु अष्टकम्
आचार्य भिक्षु के १८८ वें निर्वाणोत्सव पर सिरियारी में आचार्य श्री महाप्रज्ञ द्वारा समुच्चारित
१. अकम्पः संकल्पः क्वचिदपि न केनापि चलितः
, न चित्ते चांचल्यं न च विपथगामीन्द्रियगणः ।
 समं सोढा गालिः क्वचन घनमुष्टेः प्रहरणं,
 प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
२. न रागो न द्वेषो घटितघटनासु प्रतिकृतः,
 विरोधः सद्भावे परिणतिमुपागात् प्रतिपदम् ।
 न लेशः क्लेशानां समजनि निमेषं सहचरः,
 प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
३. अलब्धेऽप्याहारे सुमतिरचलन्नो क्षणमपि, 
न लब्धं सुस्थानं तदपि पथि नीते स्थिरमतिः । 
न कष्टं तत्कष्टं भवति यदि चित् स्पष्टमुदिता,
 प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
४. सदा स्वच्छो भावो जिनवचनभावैरपमलः,
 कृतादर्शा प्रज्ञा मतिविभवमाक्रम्य सुगता ।
 न चेर्ष्या नो निंदा गहनतमनिष्ठा स्वचरिते, 
प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
५. न सा काम्या बुद्धिर्भवति खलु या बंधनिरता,
 प्रशस्यां तां मन्ये भवति च यतश्चिद् विकसिता । स्वचैतन्ये निष्ठा प्रशमसुखवृष्टेरनुभवः, 
प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
६. ज्वरो यस्याध्वानं सततमविगानं विहितवान्, 
निराशा संन्यस्ता सरिति रवितापेन सुतराम् । 
प्रकाशः संप्राप्तो गहनतिमिरे चैत्यनिलये, 
प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
७. अगम्यं यन्नाम प्रबलतपसा संचितयशो, 
न शेषाः संक्लेशा विलयमुपयान्ति स्मरणतः ।
 नयन् ॐ ऐं ॐ ॐ अमलमनसाईं सवलयं, 
प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।
८. मतिः सिद्धा शुद्धा भवतु प्रतिबुद्धा प्रतिपलं,
 मनो हित्वा भ्रान्तिं व्रजतु सुखदां शांतिममलाम् ।
 सदा ह्रीं ह्रीं ह्रीं ह्रीं स्फुरतु नितरां भावनिचये, 
प्रसन्नात्मा भिक्षुर्नयनमवतारं नयतु मे ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top