महावीर अष्टकम्
यदीये चैतन्ये मुकुर इव भावाश्चिदचितः,
समं भान्ति ध्रौव्य व्यय-जनि-लसतोऽन्तरहिताः
जगत्-साक्षी मारग प्रकटनपरो भानुरिव यो,
महावीरस्वामी नमन पथ-गामी भवतु मे ॥
२. अताम्र यच्चक्षुः कमलयुगलं स्पन्दरहितं,
जनान् कोपापायं प्रकटयति वाऽऽभ्यन्तरमपि ।
स्फुटं मूर्ति यस्य प्रशमितमयी वातिविमला,
महावीरस्वामी नयन-पथ-गामी भवतु मे ॥
३. नमन्नाकेन्द्राली-मुकुट-मणिभा-जालजटिलं, लसत्पादाम्भोजद्वयमिह यदीयं तनुभृताम् । भवज्वालाशान्त्यै प्रभवति जलं वा स्मृतमपि, महावीरस्वामी नयन-पथ-गामी भवतु मे ॥
४. यदर्चाभावेन प्रमुदितमना दर्दुर इह,
क्षणादासीत् स्वर्गी गुणगणसमृद्धः सुखनिधिः ।
लभन्ते सद्भक्ताः शिव-सुख-समाजं किमु तदा,
महावीरस्वामी नयन-पथ-गामी भवतु मे ॥
कनत्स्वरणा भासोऽप्यपगततनुर् ज्ञान-निवहो,
विचित्रा त्माऽप्येको नृपतिवर-सिद्धार्थ-तनयः ।
अजन्माऽपि श्रीमान् विगत-भवरागोऽद्भुतगतिर, महासरस्वामी नयन-पथ-गामी भवतु मे ॥
६. यदीया वाग्-गंगा विविध नय-कल्लोल-विमला
वृहज ज्ञानाम्भोभिर्जगति जनतां या स्नपयति । इदानीमप्येषा बुधजन-मरालैः परिचिता,
महावीरस्वामी नयन-पथ-गामी भवतु मे ॥
७. अनिर्वारोद्रेकस्त्रिभुवनजयी कामसुभटः, कुमारावस्थायामपि निजबलाद्येन विजितः । स्फुरन्नित्यानन्द-प्रशमपदराज्याय स जिनः
महावीरस्वामी नयन-पथ-गामी भवतु मे ॥
८. महामोहातंक-प्रशमनपराऽऽकस्मिकभिषग्,
निरापेक्षो बन्धुर् विदितमहिमा मंगलकरः ।
शरण्यः साधूनां भव-भयभृतामुत्तमगुणी,
महावीरस्वामी नयन-पथ-गामी भवतु मे ॥
महावीराष्टकं स्तोत्रं, भक्त्या भागेन्दुना कृतम् ।
य पठेच्छृणुयाच्चापि, स याति परमां गतिम् ॥