वीतराग वंदना (मंगला चरण)
① शिव शुद्ध बुद्धं परम विश्व नाथं
न देवन बन्धू न कर्माणि कर्ता
न अंगं न संगं न इच्छा न कामं,
चिदानंद रूपं नमो वीतरागं
②न बंधो न मोक्षो न रागादि दोषं
न योगं न भोगं न व्याधि न शोकं
न क्रोधं न मानं न माया न लोभं चिदानद रूपं–
③न हस्तौ न पादौ न घाणं न जिह्मा न चक्षु न कर्णा
न वस्त्रं न निद्रां
न स्वेदं न खेदं न वर्णं न मुद्रां चिदानंद –
④ त्रिखण्डे त्रिदण्डे अरे विश्व व्यापं
न शिते समिद्भव न कर्माणिजालं
न कृष्णं न शुक्लं न मोहं न निद्रा, चिदानंद —
न जन्मं न मृत्युं न ईर्ष्या न चिन्ता न क्षिप्रं
न भीतं न कार्यंं न स्थौल्यं
न स्वामी न भृत्यो न देवो न मर्त्यो, चिदानंद —
न बाल्यं न वृद्धं न विज्ञो न मूढो,
न छेदं न भेदं न पुन्यं न पापं
न तन्द्रा न शंका न सुप्ति न क्षोभं, चिदानंद —
न आद्मं न मध्यं न अंतं नअन्यं.
न द्रव्यं न क्षेत्रं न हस्वं न दीर्घं
गुरू नैव शिष्यो न वाद्यो न वीणा, चिदानंद —
इदं ज्ञान रूपं स्वयं तत्व भेदी
न पूर्णं न शून्यं सचैतन्य रूपं
न अन्यो विभिन्नो परमात्म मेकं
चिदानंद—–